Kota Maharashtriya Samaj
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ||१||वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ||२||वेणुर्मधुरो रेणुर्मधुरः ...